From: Kedar Naphade <knaphade@gmail.com>
To: sanskrit@cheerful.com
Sent: Sun, Jul 18, 2010 8:25 am
Subject: Re: संस्कृत भाषायां संवादिनी वाद्य संबंधे व्याखानं
संस्कृत भाषायां संवादिनी वाद्यसंबंधे व्याखानं, वादनं, प्रदर्शनं च (Lecture-cum-Demonstration). संवादिनी भारतीय संगीतक्षेत्रे अतीव लोकप्रियं वाद्यं अस्ति । शास्त्रीय वा रागसंगीते अस्य बहुप्रमाणेन सर्वत्र उपयोगः अस्ति, तथा चित्रपटसंगीते, भक्तिसंगीते, भावसंगीते संवादिनी कार्यरता अस्ति। परन्तु यद्यपि संवादिन्यः भारतदेशे उपयोगः बहु अस्ति, तर्हि एतद् वाद्यं मूलतः भारतीयं नास्ति, किन्तु फ़्रान्सदेशीयमस्ति । अस्य वाद्यस्य इतिहासः अति विलक्षणः आश्चर्यकारकः वादग्रस्तश्च अस्ति । यथा – शतसंवत्सराणि एतद् वाद्यं भारतीयरागसंगीतक्षेत्रे कार्यरतमस्ति, तर्हि अद्यापि तस्य सर्वथा स्वीकृतिर्नास्ति। बहवः कलाकाराः गायनसंगे, गायकस्य आधाराय संवादिनीवादनं कुर्वन्ति, परंतु उत्तमाः स्वतन्त्रसंवादिनीवादनकाराः दुर्लभाः सन्ति । अस्मिन् कार्यक्रमे श्री केदार नाफडे महोदयः व्याख्यानं, वादनम्, प्रदर्शनं च कृत्वा श्रोतृणां मनोरञ्जनं करोति । विविधसंगीतप्रकारवादनं – रागसंगीतं, भक्तिसंगीतं, “धुन” तथा “ठुमरी” वादनम्, नाट्यसंगीतं, वाद्यसंबन्धे, वादनसंबन्धे इतिहाससंबन्धे च विश्लेषणं, प्रेक्षकैः सह प्रश्णोत्तराणि चैव एतस्मिन् कार्यक्रमे सन्ति । यदि भवान् अथवा भवतः संस्कृतसंस्था एतस्य कार्यक्रमस्य आयोजनं कर्तुमिच्छन्ति, तर्हि इमेल माध्यमेन श्री केदार नाफडे महोदयेन सह संपर्कः साधितव्यः।
Kedar Naphade
+1-609-203-5770
www.kedarnaphade.com
please start sanskrit language on google
all data in sanskrit
नमो नमः आकांक्षा-महोदये !
भवत्याः सन्देशेन अर्थबोधः न अभवत्, किम् भवती सूचयितुमिच्छति ।
यदि भवती अस्मिन् जालपुटे न्यस्तान् पाठान् पश्यति, तर्हि पश्यति भवती यत् सर्वः प्रयासः संस्कृताध्ययनस्य एव अस्ति ।
सस्नेहम्,
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
“श्रीपतेः पदयुगं स्मरणीयम् ।”