Learning Sanskrit by fresh approach – Index 1 to 40

19Learning Sanskrit by fresh approach – Index 1 to 40

संस्कृतभाषायाः  नूतनाध्ययनस्य (1 to 40)-पाठानां अनुक्रमणिका


LessonNo. सुभाषितम्
1 त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देव देव ॥
2 उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।षडेते यत्र वर्तन्ते तत्र देवः सहाय्यकृत् ॥
3 शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो मेघः ।नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥
4 उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
5 सुजनो न याति वैरम् परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥
6 अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
7 रामो राजमणिः सदा विजयते रामं रमेशं भजे ।रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ॥रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् ।रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥
8 रात्रिर्गमिष्यति भविष्यति सुप्रभातम् । भास्वानुदेष्यति हसिष्यति पंकजश्रीः ।इत्थं विचारयति कोषगते द्विरेफे । हा हन्त हन्त नलिनीं गज उज्जहार ॥
9 न कश्चिदपि जानाति किं कस्य श्वो भविष्यति ।अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥
10 इन्द्र: वायुर्यमश्चैव नैरृतो मध्यमस्तथा ।ईशानश्च कुबेरश्च अग्निर्वरुण एव च ॥
11 (रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम् ।) शिरो मे राघवः पातु भालं दशरथात्मजः ॥कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।घ्राणं पातु  मखत्राता मुखं सौमित्रिवत्सलः ॥जिव्हां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित्

मध्यं पातु खरध्वंसी  नाभिं जाम्बवदाश्रयः ॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।

ऊरू रघूत्तमः पातु रक्षः-कुलविनाशकृत्

जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ।

पादौ विभीषणश्रीदः पातु रामो खिलं वपुः ॥

12 नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |पश्यञ्शृण्वन्स्पृशञ्जिघ्रन् अश्नन्गच्छन्स्वपञ्श्वसन् ||प्रलपन्विसृजन्गृह्णन् उन्मिषन्निमिषन्नपि |इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ||
13 अतिपरिचयादवज्ञा संततगमनादनादरो भवति ।मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥
14 पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥
15 अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि बहुव्रीहिरहं राजन् षष्ठी-तत्पुरुषो भवान्
16 न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी ।व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥
17 तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ||
18 क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् ॥
19 अजरामरवत्प्राज्ञः विद्यामर्थं च साधयेत् ।गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥
20 आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया । पादं सब्रम्हचारिभ्यः पादं कालक्रमेण च ॥
21 उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ।।
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥4-17॥कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥4-18॥
22 यल्लिङ्गं  यद्वचनं  या  च  विभक्तिर्विशेषस्य ।तल्लिङ्गं  तद्वचनं  सा  च  विभक्तिर्विशेषणस्यापि ।।कर्मजं  बुद्धि-युक्ता  हि  फलं  त्यक्त्वा  मनीषिणः ।जन्म -बन्ध -विनिर्मुक्ताः  पदम्  गच्छन्त्यनामायं ।।गीता २ – ५१।।
23
व्यतिषजति पदार्थानान्तरः कोऽपि हेतुः ।
न खलु बहिरुपाधीन् प्रीतयः संश्रयन्ते ।
विकसति हि पतङ्गस्योदये पुण्डरीकम् ।
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥
24 ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।
25
आशा नाम मनुष्याणां काचिदाश्चर्य-शृङ्खला ।यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति  पङ्गुवत्  ।।
26
अशनं मे वसनं मे जाया मे बन्धु-वर्गो मे । इति मे मे कुर्वाणं कालवृको  हन्ति पुरुषाजम् ।।
rather –
रूपञ्चाभरणं मे भवनं मे साधनानि च मे ।इति मे मे कुर्वाणं कालवृको  हन्ति पुरुषाजम् ।।from eleventh chapter in श्रीमद्भगवद्गीता ।
नाहं वेदैर्न तपसा न दानेन चेज्यया । शक्य एवंविधं द्रष्टुं दृष्टवानसि मां यथा ।। (11-53)भक्त्या त्वनन्यया शक्य अहम् एवंविधोSर्जुन

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।। (11-54)

27 पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।।from seventeenth chapter in श्रीमद्भगवद्गीता ।अनुद्वेगकरं वाक्यम् सत्यं प्रियहितं च यत् ।स्वाध्यायाभ्यसनं चैव वाङ्ग्मयं तप उच्यते ||17-15||
28 श्लोकः 12-15 in श्रीमद्भगवद्गीता -यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |हर्षामर्षभयोद्वेगैर्मुक्तो  यः स च मे प्रियः ||12-15 ||
29 सत्यम् ब्रूयात् प्रियम् ब्रूयात् न ब्रूयात् सत्यमप्रियम् |प्रियम् नानृतं ब्रूयात् एष धर्मः सनातनः ||
30 सुलभाः पुरुषा राजन् सततं प्रियवादिनः |अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ||
31 समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः |तुल्यप्रियाप्रियो धीरः तुल्यनिन्दात्मसंस्तुतिः || 14-24 ||मानापमानयोस्तुल्यः तुल्यो मित्रारिपक्षयोः |सर्वारम्भपरित्यागी गुणातीतः स उच्यते || 14-25 ||
32 भूत-भावोद्भव-करो विसर्गः कर्म-संज्ञितः || 8-3 ||
33 आयुषः खण्डमादाय रविरस्तमयं गतः |अहन्यहनि बोद्धव्यं किमेतत् सुकृतं कृतम् ||
34 गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम्  |दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः || १ ||वितर वारिद वारि दवातुरे चिरपिपासितचातकपोतके |प्रचलिते मरुति क्षणमन्यथा क्व च भवान् क्व च पयः क्व च चातकः || २ ||
35 दातव्यं इति यद्दानं दीयतेऽनुपकारिणे ।देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् || 17-20 ||यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।दीयते च परिक्लिष्टं तद्दानं राजसम् स्मृतम् || 17-21 ||अदेशकाले यद्दानं अपात्रेभ्यश्च दीयते ।असत्कृतं अवज्ञातं तत्तामसमुदाहृतम् || 17-22 ||
36 रे रे चातक सावधानमनसा मित्र क्षणम् श्रूयताम् |अम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैतादृशाः |केचिद्- वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद्-वृथा |यम् यम् पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ||सूर्याश्वैर्यदि  मः सजौ सततगाः शार्दूलविक्रीडितम् |
37 धूमज्योतिस्सलिलमरुतां संनिपातः क्व मेघः |सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः |इत्यौत्सुक्यादपरिगणयन्  गुह्यकस्तं ययाचे |कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ||
मन्दाक्रान्तां बुधिरसनगैर्-मो भनौ तौ ग-युग्मम्  |
38 पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः |जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ||देवान् भावयतानेन ते देवा भावयन्तु वः |परस्परं भावयन्तः श्रेयः परमवाप्स्यथ || 3-11 ||लक्षणपदम्  of आर्या-वृत्तम् is –यस्या पादे प्रथमे द्वादश मात्रा तथा तृतीयेऽपि |अष्टादश द्वितीये चतुर्थे पञ्चदश सार्या ||
39 सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं जायते
प्रायेणोत्तममध्यमाधमदशा संसर्गतो जायते ॥
40 देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषम्  |रुद्रेणेदमुमाकृतव्यतिकरे  स्वाङ्गे विभक्तं द्विधा |त्रैगुण्योद्भवमत्र  लोकचरितं नानारसं दृश्यते |नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम्  ||दुःखेष्वनुद्विग्नमनाः सुखेषु विगत-स्पृहः |वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६ ॥


Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s