Learning Sanskrit in distance learning mode Lesson 5

Learning Sanskrit in distance learning mode
Lesson 5 पञ्चमः पाठः ।
Understanding verbs धातुविचारः ।
Continuing from previous lesson पूर्वाभ्यासतः
Towards the end of Lesson 4, there was the second phase of the commonplace conversation of a teacher seeking introduction of students in a class. And for स्वाध्याय, the asignment given was to write English translation of the conversation.
परिचयस्य द्वितीये स्तरे “त्वं किं करोसि ?” एतद्विधस्य प्रश्नस्य उत्तराणि देयानि ।
In the second stage of introduction, there have to be answers to a question as “What do you do?”
अस्य प्रश्नस्य उत्तरं एतद्विधं भविष्यति —
Reply to such question becomes as follows.
अहं तंत्रज्ञः अस्मि । अथवा
I am an engineer or
अहं प्रकृतिचिकित्सकः अस्मि । अथवा
I am a physician or
अहं कार्यालये सेवां करोमि । अथवा
I work in an office or
अहं गृहिणी अस्मि । अथवा
I am a housewife or
अहं निवृत्तः अस्मि ।
I am a retired person.
Let us proceed with usual procedure of splitting the conjugations, deciphering the compounds, meanings and grammar of all words, etc.
अधुना वयं सन्धिविच्छेद-समासविग्रह-अन्वय-शब्दार्थ-व्याकरणानि एवंविधेन सुरचितेन क्रमेण अभ्यासं कुर्मः ।
You will notice that being conversational, there are no conjugated words.
पश्यन्तु यत् अत्र न एकोऽपि सन्धिः, यतः अयं परिच्छेदः केवलं संभाषणात्मकः ।
There are three compound words –
अत्र त्रयः सामासिकशब्दाः –
एकः “एतद्विधस्य”
द्वितीयः “तंत्रज्ञः”
तृतीयः “प्रकृतिचिकित्सकः” च ।
First we have to know their declensions in first case singular.
प्रथमतः एतेषां प्रथमा-विभक्त्यां एकवचनस्य रूपाणि ज्ञातव्यानि ।
The words “तंत्रज्ञः” and “प्रकृतिचिकित्सकः” are in first case singular only.
The phrase in which the compound word एतद्विधस्य appears is एतद्विधस्य प्रश्नस्य. So the compound word एतद्विधस्य is adjectival, qualifying प्रश्नस्य. Since the noun प्रश्नस्य is in sixth i.e. genetive case of the masculine noun प्रश्न, gender of the adjectival compound word also has to be masculine.
The rule is beautifully stated in a verse as follows.
यल्लिंगं यद्वचनं या च विभक्तिर्विशेषस्य ।
तल्लिंगं तद्वचनं सैव विभक्तिर्विशेषणस्यापि ॥
Meaning is “What gender, what number and what case is of the noun, that gender, that number and that case is of the adjective also.”
So, first case singular of the adjectival compound word एतद्विधस्य would be एतद्विधः meaning “like this” or “such as this”.
Self-study (1) of previous chapter.
गतपाठे प्रथमः स्वाध्यायः ।
स्वाध्याय assigned was – “You can think of many different professions of people and compose as many different answers to the question “त्वं किं करोसि ?”
It should be borne in mind that when asking a question “त्वं किं करोसि ?” to an elderly person or to a respectable person, we should use the pronoun भवत्. This pronoun is treated to be of third person. So the verb forms to go with this pronoun have to be also of third person. So, instead of “त्वं किं करोसि ?” one should ask, भवान् किं करोति?”
Self-study (2) of previous chapter.
गतपाठे द्वितीयः स्वाध्यायः ।
स्वाध्याय assigned was – to find verbs and their derivatives in a triplet of verses from the fifth chapter in श्रीमद्भगवद्गीता viz.
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥५-८॥
प्रलपन्विसृजन्गृण्हन्नुमिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५-९॥
ब्रम्हण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५-१०॥
First we must split the conjugated words सन्धिविच्छेदान् कुर्वन्तु |
न एव किंचित् करोमि इति युक्तः मन्येत तत्त्ववित् ।
पश्यन् श्रुण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥५-८॥
प्रलपन् विसृजन् गृण्हन् उन्मिषन् निमिषन् अपि ।
इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् ॥५-९॥
ब्रम्हणि आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न सः पापेन पद्मपत्रं इव अम्भसा ॥५-१०॥
We can compose अन्वय now.
तत्त्ववित् युक्तः पश्यन् श्रुण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृण्हन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् किंचित् एव न करोमि इति मन्येत |  यः कर्माणि ब्रम्हणि आधाय सङ्गं त्यक्त्वा करोति सः (यथा) पद्मपत्रं अम्भसा (न लिप्यते) इव पापेन न लिप्यते |
Now (अधुना) to decipher the compound words (समासविग्रहान् कर्तुम्) , there are following compound words here (अत्र एतेषाः सामासिकाः शब्दाः) – तत्त्ववित् इन्द्रियार्थेषु पद्मपत्रम्
(१) तत्त्ववित् – समासस्य विग्रहः “तत्त्वम् वेत्ति अयम् इति तत्त्ववित्” उपपद-तत्पुरुषः ।
(२) इन्द्रियार्थेषु – प्रथमा एकवचने इन्द्रियार्थः । समासस्य विग्रहः “इन्द्रियस्य अर्थः” षष्ठी तत्पुरुषः ।
(३) पद्मपत्रम् – समासस्य विग्रहः “पद्मस्य पत्रम्” षष्ठी तत्पुरुषः ।
अधुना प्रत्येकस्य शब्दस्य अर्थः व्याकरणम् च ।
(१) तत्त्वम् = fundamental principle तत्त्व इति नपुंसकलिंगी सामान्यनाम । तस्य द्वितीयाविभक्तिः एकवचनम् च ।
(२) वेत्ति = knows विद् (२ प. वेत्ति, विदित) इति धातुः । तस्य वर्तमानकाले तृतीयपुरुषीयम् एकवचनम् ।
(३) युक्तः = linked (with me), (hence) the eligible one युज् (७ प. युनक्ति, युक्त) इति धातुः । तस्य कर्मणि भूतकालवाचकं धातुसाधितं विशेषणम् ।
(४) पश्यन् = seeing दृश् (१ प. पश्यति, दृष्ट) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(५) श्रुण्वन् = hearing श्रु (१ प. श्रवति, श्रुत) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(६) स्पृशन् = touching स्पृश् (६ प. स्पृशति, स्पृष्ट) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(७) जिघ्रन् = smelling घ्रा (१ प. जिघ्रति, घ्रात घ्राण) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(८) अश्नन् = eating अश् (९ प. अश्नाति, अशित) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(९) गच्छन् = going or moving around गम् (१ प. गच्छति, गत) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१०) स्वपन् = dreaming स्वप् (२ प. स्वपिति, सुप्त) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(११) श्वसन् = breathinh श्वस् (२ प. श्वसिति, श्वसित, श्वस्त) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१२) प्रलपन् = weeping प्र + लप् (१ प. लपति, लपित) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१३) विसृजन् = emanating वि + सृज् (६ प. सृजति, सृष्ट) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१४) गृण्हन् = receiving ग्रह् (९ उ. गृण्हाति, गृहीत) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१५) उन्मिषन् = waking उत् + मिष् (६ प. मिषति, मिष्ट) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१६) निमिषन् = dosing नि + मिष् (६ प. मिषति, मिष्ट) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(१७) अपि = even when अव्ययम्
(१८) इन्द्रियाणि = organs इन्द्रिय इति नपुंसकलिंगी सामान्यनाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
(१९) इन्द्रियार्थेषु = for the purpose of organs इन्द्रियार्थ इति सामासिकम् पुल्लिंगी सामान्यनाम । तस्य सप्तमी विभक्तिः बहुवचनम् च ।
(२०) वर्तन्ते = are वृत् (१ आ. वर्तते, वृत्त) इति धातुः । तस्य वर्तमानकाले तृतीयपुरुषीयम् बहुवचनम् ।
(२१) इति = thus अव्ययम् ।
(२२) धारयन् = presuming धृ (१० उ. धारयति-ते, धृत, धारित) इति धातुः । तस्य कृदन्तम् विशेषणम् । तस्य पुल्लिंगे प्रथमा विभक्तिः एकवचनम् च ।
(२३) किंचित् = even little किम् इति सर्वनाम । तस्य नपुंसकलिंगे “चित्”-प्रत्ययान्तः शब्दः ।
(२४) एव = also अव्ययम् ।
(२५) न = not नकारात्मकम् अव्ययम् ।
(२६) करोमि = (I) do कृ (८ उ. करोति, कुरुते, कृत) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषीयम् एकवचनम् ।
(२७) इति = thus अव्ययम् ।
(२८) मन्येत = should understand मन् (१ प. मनति, मत) इति धातुः । तस्य विध्यर्थे तृतीयपुरुषीयम् एकवचनम् ।
(२९) यः = he who यत् सर्वनाम्नः पुल्लिंगे प्रथमाविभक्तिः एकवचनम् च ।
(३०) कर्माणि = jobs कर्मन् इति नपुंसकलिंगी सामान्यनाम । तस्य द्वितीया विभक्तिः बहुवचनम् च ।
(३१) ब्रम्हणि = in Bramha ब्रम्हन् इति पुल्लिंगी विशेषनाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
(३२) आधाय = by vesting आ + धा (३ उ. दधाति धत्ते, हित) इति धातुः । तस्य य-प्रत्ययान्तम् ल्यबन्तम् (धातुसाधितम्) ।
(३३) सङ्गं = attachment सङ्ग इति पुल्लिंगी सामान्यनाम । तस्य द्वितीया विभक्तिः एकवचनम् च ।
(३४) त्यक्त्वा = forsaking त्यज् (१ प. त्यजति, त्यक्त) इति धातुः । तस्य त्वान्तम् ल्यबन्तम् (धातुसाधितम्) ।
(३५) करोति = does कृ (८ उ. करोति, कुरुते, कृत) इति धातुः । तस्य वर्तमानकाले तृतीयपुरुषीयम् एकवचनम् ।
(३६) सः = he तत् सर्वनाम्नः पुल्लिंगे प्रथमाविभक्तिः एकवचनम् च ।
(३७) पद्मपत्रं = leaf of lotus पद्मपत्र इति सामासिकम् नपुंसकलिंगी सामान्यनाम । तस्य प्रथमाविभक्तिः एकवचनम् च ।
(३८) अम्भसा = by water अम्भस् इति नपुंसकलिंगी सामान्यनाम । तस्य तृतीयाविभक्तिः एकवचनम् च ।
(३९) इव = like that अव्ययम् ।
(४०) पापेन = by sin पाप इति नपुंसकलिंगी सामान्यनाम । तस्य तृतीयाविभक्तिः एकवचनम् च ।
(४१) न = not नकारात्मकम् अव्ययम् ।
(४२) लिप्यते = gets afflicted लिप् (  लिपति, लिप्त) इति धातुः । तस्य कर्मणिप्रयोगे वर्तमानकाले तृतीयपुरुषीयम् एकवचनम् ।
The overall meaning becomes – “He who knows the fundamental principles, (thus) being eligible, even when seeing, hearing, touching, smelling, eating, moving around, dreaming, breathing, weeping, emanating, waking, dosing, (by) understanding that organs are for the purpose of organs, should understand that I do nothing. He who does actions by forsaking the attachments, by vesting actions in Brahman, does not get afflicted by sins, just as a leaf of a lotus does not get afflicted by water.”
It may be noted that 23 out of the 42 words above are verbs or verbal derivatives. That emphasizes the importance of verbs as parts of speech. It is important to study Verbs not only for their
– declensions in different moods and tenses but also in
– active and passive voices,
– causative forms and
– verbal derivatives i.e. many participles, nouns, adjectives and indeclinables derived from verbs.
Hence the title of this chapter as Understanding verbs धातुविचारः
In Sanskrit grammar there are total ten tenses and moods summarised in the following verse.
लट् वर्तमाने लोट् वेदे
भूते लुङ् लङ् लिटस्तथा ।
विध्याशिषौ लिङ्लोटौ
लुट् लृट् लृङ् च भविष्यतः ॥
We can undrstand these by third person singular forms of the verb भू
(१) वर्तमाने लट् e.g. भवति Only one type of Present tense unlike four in English viz.
Simple Present e.g. I do
Present Continuous e.g. I am doing
Present Perfect e.g. I have done
Present Perfect continuous e.g. I have been doing
Translation of Present continuous, Present Perfect and Present Perfect continuous are provided by use of verbal derivatives, detailed below.
(२, ३, ४) भूते लङ् लिट् लुङ् Three types of Past tense अभवत्, बभूव, अभूत्
Although there are three types of past tense, they are different from Past simple, Past continuous, Past Perfect and Past Perfect continuous in English grammar. These variations are again provided by use of verbal derivatives, detailed below.
(2.1) अभवत्  past tense of लङ् type is also known as अनद्यतनः भूतकालः As the name अनद्यतनः suggests, अनद्यतनः = अन् + अद्य-तनः means “not of today”, hence, of some earlier time. To such extent it is simple past tense and is in common use in this manner only.
(2.2) बभूव past tense of लिट् type is also known as परोक्षभूतकालः Here परोक्ष means “unseen”, i.e. “of a time, past long ago”. An intersting example of this is in a couplet wherein greatness of Kaalidaasa as a poet is eulogised.
पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा ।
अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥
Deciphering meaning of this couplet can be taken up as स्वाध्याय !
(2.3) अभूत् past tense of लुङ् type is also called as Aorist by grammarians. It is found in classical literature. Otherwise, it is not in common use for colloquial Sanskrit.
(५, ६, ७) भविष्यतः लुट् लृट् लृङ् च Three types of Future भविष्यति भविता अभविष्यत्
(८) वेदे (=आज्ञार्थे) लोट् Imperative mood i.e. order भवतु
(९) विधौ लिङ् Potential mood as with “may, might, should, would” in English भवेत्
(१०) आशिषे लोट् exclusively for giving blessings or benedictions भूयात्
Verbal Derivatives is a speciality of Sanskrit. This facilitates composing sentences without a formal verb. For example, ” I have done it” can be simply put as कृतम् मया This makes colloquial Sanskrit or speaking Sanskrit very, very easy!
(1) Infinitives such as “to do” i.e. “for doing” are provided by tumant indeclinables तुमन्तानि अव्ययानि e.g. कर्तुम्
(2) A gerund कृदन्त (कृत् + अन्तम् = कृत् अन्ते अस्ति इति कृदन्तम्) such as “doing” as used in present imperfect, e.g. “I am doing” is provided by adjectives derived by a suffix अत् to the verb, e.g. कुर्वत् This is adjectival, hence has declensions. For masculine first case is कुर्वन् and feminine first case is कुर्वती. Examples of gerunds are aplenty in the three shlokaas studied above.
(3) More adjectives or participles or adjectival nouns are obtained by using suffixes यत्, तव्यत्, अनीयस् e.g. कार्यम् कर्तव्यम् करणीयम्
(4) Participles to mean “on doing” are obtained by using suffixes known as त्वान्त or ल्यबन्त e.g. कृत्वा विधाय Ending य in a ल्यबन्त should not be confused with that in a participle such as कार्य
(5) Past passive participle (ppp) useful for past perfect as in “I have done” or “is done by me” is an important derivative of all verbs, e.g. कृत
(6) Past active participle useful for past perfect e.g. “I have done” is obtained by using a suffix वत् to the past passive participle, e.g. कृतवत् This is adjectival hence has declensions. For masculine first case is कृतवान् and feminine first case is कृतवती
(7) Infinitives such as “to do” or “doing” are used as actions nouns in Sanskrit. There are action nouns related to all verbs e.g.  गमनम् from the verb गम् or आगमनम् from आ + गम्
(8) Apart from action nouns, other nouns derived from a verb are of three types e.g. from the verb ज्ञा meaning “to know” one gets ज्ञानम् i.e. knowledge or occurance of or happening of knowledge ज्ञेयम् that, what is to be known ज्ञाता one who gets to know or ज्ञानी one who knows.
(9) Study about verbs should also go into active and passive voice, कर्तरीप्रयोगः कर्मणिप्रयोगः च We shall study these in due course.
(10) The study should also go into causative प्रयोजकः, i.e. getting done as against doing by oneself.  There is an extension of the causative, in the manner of asking someone to get done प्रप्रयोजकः We shall study these in due course.
Third aspect of Introductory conversation
परिचय-संभाषणस्य तृतीयः विषयः
In the third aspect of introductory conversation the question would be “where do you stay?”
प्रश्नः भवति “त्वं कुत्र वससि ?” अथवा “कुत्र तव निवासः ?”
आदरेण तु “कुत्र वसति भवान् ?” अथवा “कुत्र भवतः निवासः ?”
अस्य प्रश्नस्य उत्तरस्य प्रमाणं एतद्विधं भविष्यति —
अहं मुम्बापुर्यां
“मालाड (पूर्व)”-उपनगरे,
“जनरल अरुणकुमार वैद्य”-मार्गे,
“शुची-हाइट्स्” सौधे
२०१ (द्विः-शून्यं-एकं अथवा द्विशतकाधिकं एकं)-क्रमाङ्किते गृहे
निवसामि ।
स्वाध्यायाः –
१) “यल्लिंगं यद्वचनं ….”, “वर्तमाने लट्…” तथा “पुरा कवीनां …” एतेषां श्लोकानां हृदिकरणम् अभ्यसनं च ।
२) प्रत्येकेन “त्वं कुत्र वससि ?” अस्य प्रश्नस्य स्वकीयं उत्तरं संगठितव्यम् लेखनीयम् च ।
-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s