Learning Sanskrit by fresh approach – Index
Learning Sanskrit by fresh approach – Index
संस्कृतभाषायाः नूतनाध्ययनस्य पाठानां अनुक्रमणिका ।
| Lesson
No. |
सुभाषितम् |
| 1 | त्वमेव माता च पिता त्वमेव ।
त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देव देव ॥ |
| 2 | उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवः सहाय्यकृत् ॥ |
| 3 | शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो मेघः ।
नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥ |
| 4 | उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ |
| 5 | सुजनो न याति वैरम् परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ |
| 6 | अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ |
| 7 | रामो राजमणिः सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ॥ रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् । रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ |
| 8 | रात्रिर्गमिष्यति भविष्यति सुप्रभातम् ।
भास्वानुदेष्यति हसिष्यति पंकजश्रीः । इत्थं विचारयति कोषगते द्विरेफे । हा हन्त हन्त नलिनीं गज उज्जहार ॥ |
| 9 | न कश्चिदपि जानाति किं कस्य श्वो भविष्यति ।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥ |
| 10 | इन्द्र: वायुर्यमश्चैव नैरृतो मध्यमस्तथा ।
ईशानश्च कुबेरश्च अग्निर्वरुण एव च ॥ |
| 11 | (रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम् ।)
शिरो मे राघवः पातु भालं दशरथात्मजः ॥ कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ जिव्हां विद्यानिधिः पातु कण्ठं भरतवन्दितः । स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ करौ सीतापतिः पातु हृदयं जामदग्न्यजित् । मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः । ऊरू रघूत्तमः पातु रक्षः-कुलविनाशकृत् ॥ जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः । पादौ विभीषणश्रीदः पातु रामो खिलं वपुः ॥ |
| 12 | नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन् अश्नन्गच्छन्स्वपञ्श्वसन् || प्रलपन्विसृजन्गृह्णन् उन्मिषन्निमिषन्नपि | इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् || |
| 13 | अतिपरिचयादवज्ञा संततगमनादनादरो भवति ।
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥ |
| 14 | पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ |
| 15 | अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि ।
बहुव्रीहिरहं राजन् षष्ठी-तत्पुरुषो भवान् ॥ |
| 16 | न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी ।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥ |
| 17 | तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः || |
| 18 | क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम् ॥ |
| 19 | अजरामरवत्प्राज्ञः विद्यामर्थं च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ |
| 20 | आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
पादं सब्रम्हचारिभ्यः पादं कालक्रमेण च ॥ |
| 21 | उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
प्रहाराहारसंहारविहारपरिहारवत् ।।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥4-17॥ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥4-18॥ |
| 22 | यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेषस्य ।
तल्लिङ्गं तद्वचनं सा च विभक्तिर्विशेषणस्यापि ।। कर्मजं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः । जन्म -बन्ध -विनिर्मुक्ताः पदम् गच्छन्त्यनामायं ।।गीता २ – ५१।। |
| 23 |
व्यतिषजति पदार्थानान्तरः कोऽपि हेतुः ।
न खलु बहिरुपाधीन् प्रीतयः संश्रयन्ते ।
विकसति हि पतङ्गस्योदये पुण्डरीकम् ।
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥
|
| 24 | ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। |
| 25 |
आशा नाम मनुष्याणां काचिदाश्चर्य-शृङ्खला ।
यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ।।
|
| 26 |
अशनं मे वसनं मे जाया मे बन्धु-वर्गो मे ।
इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ।। इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ।। from eleventh chapter in श्रीमद्भगवद्गीता । शक्य एवंविधं द्रष्टुं दृष्टवानसि मां यथा ।। (11-53) भक्त्या त्वनन्यया शक्य अहम् एवंविधोSर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।। (11-54) |
| 27 | पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।। from seventeenth chapter in श्रीमद्भगवद्गीता । अनुद्वेगकरं वाक्यम् सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्ग्मयं तप उच्यते ||17-15|| |
| 28 | श्लोकः 12-15 in श्रीमद्भगवद्गीता -यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ||12-15 || |
| 29 | सत्यम् ब्रूयात् प्रियम् ब्रूयात् न ब्रूयात् सत्यमप्रियम् |
प्रियम् नानृतं ब्रूयात् एष धर्मः सनातनः || |
| 30 | सुलभाः पुरुषा राजन् सततं प्रियवादिनः |
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः || |
| 31 | समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः |
तुल्यप्रियाप्रियो धीरः तुल्यनिन्दात्मसंस्तुतिः || 14-24 || मानापमानयोस्तुल्यः तुल्यो मित्रारिपक्षयोः | सर्वारम्भपरित्यागी गुणातीतः स उच्यते || 14-25 || |
| 32 | भूत-भावोद्भव-करो विसर्गः कर्म-संज्ञितः || 8-3 || |
| 33 | आयुषः खण्डमादाय रविरस्तमयं गतः |
अहन्यहनि बोद्धव्यं किमेतत् सुकृतं कृतम् || |
| 34 | गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम् |
दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः || १ || वितर वारिद वारि दवातुरे चिरपिपासितचातकपोतके | प्रचलिते मरुति क्षणमन्यथा क्व च भवान् क्व च पयः क्व च चातकः || २ || |
| 35 | दातव्यं इति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् || 17-20 || यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसम् स्मृतम् || 17-21 || अदेशकाले यद्दानं अपात्रेभ्यश्च दीयते । असत्कृतं अवज्ञातं तत्तामसमुदाहृतम् || 17-22 || |
| 36 | रे रे चातक सावधानमनसा मित्र क्षणम् श्रूयताम् |
अम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैतादृशाः | केचिद्- वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद्-वृथा | यम् यम् पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः || सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम् | |
| 37 | धूमज्योतिस्सलिलमरुतां संनिपातः क्व मेघः |
सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः | इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे | कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु || |
| 38 | पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः |
जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य || देवान् भावयतानेन ते देवा भावयन्तु वः | परस्परं भावयन्तः श्रेयः परमवाप्स्यथ || 3-11 || लक्षणपदम् of आर्या-वृत्तम् is –यस्या पादे प्रथमे द्वादश मात्रा तथा तृतीयेऽपि | अष्टादश द्वितीये चतुर्थे पञ्चदश सार्या || |
| 39 | सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं जायते प्रायेणोत्तममध्यमाधमदशा संसर्गतो जायते ॥ |
| 40 | देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषम् |
रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा | त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते | नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् || दुःखेष्वनुद्विग्नमनाः सुखेषु विगत-स्पृहः | वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ २-५६ ॥ |
| 41 | यद्येन क्रियते किंचिद्येन येन यदा यदा । विनाभ्यासेन तन्नेह सिद्धिमेति कदाचन ।।३.२२.२३॥ तच्चिन्तनं तत्कथनम् अन्योन्यं तत्प्रबोधनम् । |
| 42 | यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया । कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः । पीड्यन्ते गृहिणः कथं न तनयाविश्लेषदुःखैर्नवैः ॥ |
| 43 | अस्मान् साधु विचिन्त्य संयमधनानुच्चं कुलं चात्मनस् त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ १६ ॥ |
| 44 | शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तृर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ १८ ॥ क्लैब्यं मा स्म गमः पार्थ नैतत्वैय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥ २-३ ॥ |
| 45 | अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः जातो ममायं विशदः प्रकामम् प्रत्यर्पितन्यास इवान्तरात्मा ॥ २१ ॥ निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः | शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४-२१ ॥ अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ १८-५३ ॥ |
| 46 | ऐश्वर्यस्य विभूषणम् सुजनता शौर्यस्य वाक्-संयमः ज्ञानस्यॊपशमः श्रुतस्य विनयॊ वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा बलवताम् धर्मस्य निर्व्याजता सर्वेषाम् अपि सर्वकारणमिदम् शीलम् परम् भूषणम् || |
| 47 | करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयिभुजयोर्वीर्यमतुलम् हृदि स्वच्छा वृत्तिः श्रुतमधिगतैकव्रतफलम् विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् || ६५ ॥ एषः “शिखरिणी”-छन्दः । तस्य लक्षणपदम् - “रसैर्रुद्रैश्छिन्ना यमनसभलागा शिखरिणी” कराग्रे वसते लक्ष्मीः करमध्ये च सरस्वती । करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥ द्यौः शान्तिरन्तरिक्ष शान्तिः । पृथ्वी शान्तिः । आपः शान्तिः । ओषधयः शान्तिः । वनस्पतयः शान्तिः । विश्वेदेवाः शान्तिः । ब्रह्म शान्तिः । सर्व शान्तिः॥ शान्तिरेव शान्तिः | विश्वेदेवाः शान्तिः । ब्रह्म शान्तिः॥ सर्व शान्तिः | वनस्पतयः शान्तिः । विश्वेदेवाः शान्तिः । ब्रह्म शान्तिः । सर्व शान्तिः । शान्तिरेव शान्तिः | सा मा शान्तिरेधि । सुशान्तिर्भवतु ॥ |
| 48 | अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥ |
| 49 | अनाचारेण मालिन्यं अत्याचारेण मूर्खता । विचाराचारयोर्योगः स सदाचार उच्यते ॥ |
| 50 | अव्याकरणमधीतं भिन्नद्रोण्या तरंगिणीतरणम् । भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतम् ॥ |
| 51 |
यदा किञ्चित्झोऽहं गज इव मदान्धः समभवम्
तदा सर्वज्ञोऽस्मीत्यभवदलिप्तं मम मनः
यदा किञ्चित् किञ्चित् बुधजनसकाशादवगतम्
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥
|
| 52 | सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु प्रकृतिरियं सत्त्ववतां न वयस्तेजसो हेतुः ॥ |
| 53 | न तेन स्थविरो भवति येनास्य पलितं शिरः। यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः ॥ |
| 54 | संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु (सा) विवक्षामपेक्षते ॥ |
| 55 | नृत्तावसाने नटराजराजः निनाद ढक्काम् नवपञ्चवारम् । उद्धर्तुकामस्सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥ |
| 56 | काचं मणिं काञ्चनमेकसूत्रे मुग्धा निबध्नन्ति किमत्र चित्रम् । विचारवान्पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह ॥ |
| 57 | अहन्यहनि भूतानि गच्छन्तीह यमालयम् । शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥ In reply to - को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका । ममैतांश्चतुरः प्रश्नान् कथयित्वा जलं पिब ॥११४॥ |
| 58 | तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नाः । नैको मुनिर्यस्य मतं प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायाम् । महाजनो येन गतः स पन्थाः ॥ |
| 59 | मा गा इत्यपमङ्गलं व्रज सखे स्नेहेन दीनं वचः। तिष्ठेति प्रभुता यथामति चरेत्यैवम् ह्युदासीनता । नो जीवाम विना त्वया यदुपते सम्भाव्यते वा न वा । स्मर्तव्या वयमादरेण भवता यावत् पुनर्दर्शनम् ॥ |
| 60 | “भो भोः पान्थ कुतो?” “नगरतो” “वार्ता तु काचित् श्रुता?” । “बाढं” “ब्रूहि” “युवा पयोदसमये भार्यां विना जीवति ।” “सत्यं जीवति” “जीवतीति कथिता वार्ता मयापि श्रुता “। “संकीर्णा पृथिवी जनाश्च बहवः किं तन्न सम्पद्यते” ॥ |
| 61 | भोजनान्ते च किं पेयम् जयन्तः कस्य वै सुतः । कथं विष्णुपदं प्रोक्तम् तक्रं शक्रस्य दुर्लभम् ॥ |
| 62 | यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा । यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् । सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ |
| 63 | अपि क्रियार्थम् सुलभं समित्कुशम् ।
जलानि अपि स्नानविधिक्षमं ते।
अपि स्वशक्त्या तपसि प्रवर्तसे । शरीरमाद्यम् खलु धर्मसाधनम्॥ |
| 64 |
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥
|
| 65 | व्यसनान्यत्र बहूनि व्यसनद्वयमेव केवलं व्यसनम् । विद्याभ्यसनं व्यसनं अथवा हरिपादसेवनं व्यसनम् ।। |
| 66 | अन्धं तमः प्रविशन्ति येऽविद्यामुपासते |
ततो भूय इव ते तमः य उ विद्यायां रताः || ९ || |
| 67 | दशमः मन्त्रः of ईशावास्योपनिषत् –
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया | इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे || १० || |
| 68 | एकादशः मन्त्रः of ईशावास्योपनिषत् –विद्याम् चाविद्यां च यस्तद्वेदोभयं सह |
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते || ११ || |
| 69 |
असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मामृतं गमय । (अनृतान्मा ऋतं गमय) ॥ |
| 70 | चतुरः सखि मे भर्ता यल्लिखति को न वाचयति । तस्मादप्यधिको मे यल्लिखति स्वयं न वाचयति || |
| alternatively
चतुरः सखि मे भर्ता यल्लिखितं तत्परो न वाचयति।
न वाचयति परलिखितं स्वयमपि लिखितं स्वयं न वाचयति ॥ or
चतुरः सखि मे भर्ता यल्लिखति तत्परो न वाचयति।
तस्मादप्यधिकं मे स्वयमपि लिखितं स्वयं न वाचयति ॥ |
|
| 71 | पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः |
जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे || |
| 72 | अग्निः शेषः ऋणं शेषं शत्रुः शेषस्तथैव च ।
पुनः पुनः प्रवर्धेत तस्माच्छेषं न कारयेत् ।। |
| 72 (S) | नोपेक्षितव्यो विद्वद्भिः शत्रुरल्पोऽप्यवज्ञया |
वह्निरल्पोऽपि संवृद्धः कुरुते भस्मसाद्वनम् || |
| 73 | जातं वंशे भुवनविदिते पुष्करावर्तकानाम् |
जानामि त्वाम् प्रकृतिपुरुषं कामरूपं मघोनः | तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहम् | याञ्चा मोघा वरमधिगुणे नाधमे लब्धकामा || |
| 74 | उपायाः सामं दामं च भेदो दण्डस्तथैव च । सम्यक्-प्रयुक्ता सिद्ध्येयुर्दण्डस्त्वगतिका गतिः || |
| 75 | सानुस्वारश्च दीर्घश्च विसर्गी च गुरुर्भवेत् । वर्णः संयोगपूर्वश्च तथा पादान्तगोऽपि वा ॥ आदिमध्यावसानेषु यरता यान्ति लाघवम् । मस्त्रिगुरुस्त्रिलघुश्च नकारो । |
| 76 | आरभ्यते न खलु विघ्नभयेन नीचैः |
प्रारभ्य विघ्नविहता विरमन्ति मध्याः | विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः | प्रारभ्य तूत्तमजना न परित्यजन्ति || |
| 77 | रत्नैर्महार्हैस्तुतुषुर्न देवाः ।
न भेजिरे भीमविषेण भीतिम् । सुधां विना न प्रययुर्विरामम् । न निश्चितार्थाद्विरमन्ति धीराः ।। |
| 78 | क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनम् |
क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः | क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो | मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् || |
| 79 | रथस्यैकम् चक्रम् भुजगयमिताः सप्त तुरगाः । निरालम्बो मार्गश्चरणरहितः सारथिरपि । रविर्गच्छत्यन्तं प्रतिदिनमपारस्य नभसः । क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ |
| 80 | पञ्चैतानि महाबाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१८-१३॥ अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टाः दैवम् चैवात्र पञ्चमम् ॥१८-१४॥ |
| 81 | विजेतव्या लङ्का चरणतरणीयो जलनिधिः । विपक्षः पौलस्त्यो रणभुवि सहाय्याश्च कपयः । तथाप्येको रामः सकलमवधीद्राक्षसकुलम् । क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ |
leave a comment