Learning Sanskrit by fresh approach – Lesson No. 96
Learning Sanskrit by fresh approach – Lesson No. 96
संस्कृतभाषायाः नूतनाध्ययनस्य षट्-नवतितमः (९६) पाठः ।
One Mr. Brian Ruppenthal wanted to know where one can find the context of the phrase अविवेकः परमापदां पदम् ।
Exercise 1 Rewrite these by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु ।
- क्रियाम् अविवेकः = क्रियामविवेकः (व्यञ्जन-संधिः)
- परमापदाम् = परमा-आपदाम् (स्वर-संधिः)
- स्वयमेव = स्वयं एव (व्यञ्जन-संधिः)
- किरातार्जुनीयम् = किरात-अर्जुनीयम्
The first संधि is not actually shown. It can be seen that when putting the verse into four quarters, the words क्रियाम् and अविवेकः would be at the end of first quarter and at the beginning of second quarter respectively. Hence it becomes better to leave them to be without their सन्धि.
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः
- (मनुजः) क्रियाम् सहसा न विदधीत । प्रधान-वाक्यांशः ।
- अविवेकः परमा-आपदां पदम् (भवति) । प्रधान-वाक्यांशः ।
- गुणलुब्धाः संपदः विमृश्यकारिणं स्वयं एव हि वृणते हि । प्रधान-वाक्यांशः ।
वाक्यांशानां विश्लेषणानि Analysis of clauses -
| वाक्यांश- क्रमाङ्कः |
उद्गारवाचकम्, संबोधनम् वा अव्ययम् | संबन्धसूचकम् | कर्तृपदम् | कर्मपदम् अथवा पूरकपदम् | क्रियापदम् अथवा धातुसाधितम् | इतरे शब्दाः |
| १ | सहसा | (मनुजः) | क्रियाम् | न विदधीत | ||
| २ | अविवेकः | पदम् | (भवति) | परमा-आपदाम् | ||
| ३ | गुणलुब्धाःसंपदः | विमृश्यकारिणम् | वृणते | स्वयं एव हि हि |
स्वाध्यायः ३
- अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
- आ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।
Exercise 3
- 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
- 3 B) Give translations into English for all clauses and sentences
From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.
- (मनुजः) क्रियाम् सहसा न विदधीत ।
- अविवेकः परमापदां पदम् (भवति) ।
- गुणलुब्धाः संपदः विमृश्यकारिणं स्वयं एव हि वृणते हि ।
- किरातार्जुनीयम्
१ मनुजः “मनुज” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- १-१ मनुतः (मनुवंशे) जातः इति मनुजः । उपपद-तत्पुरुषः ।
- १-२ मनुतः “मनु” (= the personage regarded as the progenitor of human race) इति पुल्लिङ्गि नाम । तस्मात् “तः”-प्रत्ययेन (तं गृहीत्वा अग्रतः = ahead from the one) इत्यर्थेन तद्धितम् मनुतः (= ahead from Manu) ।
- १-३ जातः “जन्” (= to be born) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “जात” (= born) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- १-४ मनुजः = descendant of Manu, human being, any person. (Has the English word “Man” also a derivation from Manu ?
२ क्रियाम् “कृ” ८ उ (= to do) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “क्रिया” (= action) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३ सहसा (= in a hurry) इति अव्ययम् ।
४ विदधीत “वि + धा” ३ उ (= to do, to indulge in) इति धातुः । अत्र आत्मनेपदी । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् । नपुंसकलिङ्गि ।
५ अविवेकः “अविवेक” इति सामासिकं पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ५-१ न विवेकः अविवेकः । नञ्-तत्पुरुषः ।
- ५-२ विवेकः “वि + विच्” ३, ७ उ (= to discern) इति धातुः । तस्मात् पुल्लिङ्गि नाम “विवेक” (= discretion) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ५-३ अविवेकः = indulgence without discretion
६ परमापदाम् “परमापत्” इति सामासिकं स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
- ६-१ परमा आपत् इति परमापत् । कर्मधारयः ।
- ६-२ परमा “परम” (= extreme) इति विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ६-३ आपदाम् “आ + पत्” १ प (= to befall) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “आपत्” (= trouble) । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
- ६-४ परमापत् = extreme trouble
७ पदम् “पद” (= step) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
८ गुणलुब्धाः “गुण-लुब्ध” इति सामासिकं विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
- ८-१ गुणेन लुब्धा इति गुणलुब्धा । तृतीया-तत्पुरुषः ।
- ८-२ गुणेन “गुण’ (= characteristics, usually a virtue) इति पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
- ८-३ लुब्धा “लुभ्” ४ प (= to entice) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “लुब्ध” । अत्र स्त्रीलिङ्गि (= enticed) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ८-४ गुणलुब्धा = enticed by virtue, enticed by virtuosity
९ संपदः “संपद्” (= wealth, glory) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
१० विमृश्यकारिणम् “विमृश्यकारिन्” इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
- १०-१ विमृश्य करोति इति विमृश्यकारिन् = one who acts on exercising discretion
- १०-२ विमृश्य “वि + मृश्” ६ प (= to discern) इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् “विमृश्य” (= on exercising discretion) ।
११ वृणते “वृ” १, ५, ९ उ (= to choose, to favour) इति धातुः । अत्र नवमगणे आत्मनेपदी । तस्य वर्तमानकाले प्रथमपुरुषे बहुवचनम् ।
१२ किरातार्जुनीयम् इति सामासिकं तद्धितं च विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- १२-१ किरातः च अर्जुनः च किरातार्जुनौ इति इतरेतर-द्वन्द्वः ।
- १२-२ किरातार्जुनयोः इदं किरातार्जुनीयम् इति तद्धितम् विशेषणम् ।
- १२-३ किरातः “किरात” (= ) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- १२-४ किरातार्जुनीयम् = something which is related to Kiraata and Arjuna
स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning -
(मनुजः) क्रियाम् सहसा न विदधीत ।
One should not indulge in action in a hurry.
अविवेकः परमा-आपदां पदम् (भवति) ।
Indiscretion becomes a step towards extreme troubles
गुणलुब्धाः संपदः विमृश्यकारिणं स्वयं एव हि वृणते हि ।
Glory (good results) always enticed by virtuosity prefer one who exercises discretion.
Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we set the verse in four quarters -
सहसा विदधीत न क्रियाम् । वर्णाः १०
अविवेकः परमापदां पदम् । वर्णाः ११
वृणते हि विमृश्यकारिणं । वर्णाः १०
गुणलुब्धाः स्वयमेव हि संपदः ॥ वर्णाः १२
Category of वृत्तानि wherein similarity is by parts is called as अर्धसमवृत्तानि. वियोगिनी-वृत्तम् is a meter in this category.
Exercise 6 Comments, Notes, Observations, if any.
स्वाध्यायः ६ टिप्पणयः ।
६-१ किरातार्जुनीयम् is a poem composed by poet भारवि. It is based on an incident mentioned in महाभारतम् ।
६-२ Following information is obtained from http://sa.wikipedia.7val.com/wiki/किरातार्जुनीयम्
कवि परिचयः
किरातार्जुनीयम् महाकविना भारविणा रचितमॆकम् महाकाव्यम् अस्ति । भारवेः एषा एका एव स्वना उपलभ्यतॆ । आवन्तिसुन्दरीकथानुसारॆण महाकविः दण्डी भारवेः प्रपौत्रः आसीत् । एषः कौशिकगॊत्रीयः आसीत् । अस्य पूर्वजाः गुर्जरप्रदॆशस्य आनन्दपुरनगरॆ वसन्ति स्म । नारायणस्वामिः तस्य पिता । भारवॆः मूलनाम दामोदरः आसीत् । भारविः तस्य उपाधिः आसीत् ।
कृति परिचयः
किरातार्जुनीयस्य कथानकस्य मूलाधारः महाभारतम् अस्ति । महाभारतस्य अष्टादशसर्गेषु वनपर्वेषु विभक्ता किरातार्जुनीयस्य कथा अस्ति । अत्र किरातः तत्वॆषधारी शिवः अस्ति । महाभारतात् संक्षिप्त कथानकं स्वीकृत्य भारविः स्वकल्पनाभिः काव्यप्रतिभया च कथानकॆ मौलिकतां उत्पादितवान् । महाभारतस्य शैली सरला अस्ति किन्तु किरातार्जुनीयस्य शैली क्लिष्टा अलंकृता च अस्ति । महाकाव्यलक्षणानुरोधेन भारविः स्थानॆ स्थानॆ ऋतु- पर्वत- नदी- वन- प्रातः-सन्ध्यादीनाम् अपि सुन्दरम् वर्णनम् कृतवान् । भारवेरर्थगौरवम् इत्युक्त्यनुसारम् किरातर्जुनीयस्य अर्थगौरवम् अति प्रसिद्धम् अस्ति । चित्रकाव्यस्य चमत्कारं प्रदर्शयन् भारविः एकव्यंजनस्य प्रयोगेणापि श्लोकानां निर्माणं कृतवान् ।
- उदाहरणार्थं श्लोकमॆकम् अत्र दत्तम् ।
न नोननुन्नो नुन्नानो (नुन्नेनो ?) नाना नानानना ननु । नुन्नोऽनुन्नो ननुन्नेना नानेना नुन्ननुन्ननुत् ॥ किरा. ॥
६-३ The श्लोक: composed using only single consonant न makes an interesting study, though a tough one. We shall attempt it in the next lesson.
- ६-३-१ In a book “The wonder that is Sanskrit” published by Sri Aurobindo Society, Pondicherry in association with Mapin Publishing, Ahmedabad I notice the third word mentioned as नुन्नेनो in place of नुन्नानो mentioned at http://sa.wikipedia.7val.com/wiki/किरातार्जुनीयम् ।
- ६-३-२ I did notice some errors in the extract from http://sa.wikipedia.7val.com/wiki/किरातार्जुनीयम् quoted above. I already corrected them above. That leaves room to believe that नुन्नेनो as mentioned in the book “The wonder that is Sanskrit” may be more correct.
६-४ The mention भारवेरर्थगौरवम् is a part of a shloka which brings out specialties of different Sanskrit poets. It reads as follows -
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।।
६-५ In the note under (६-२) it is mentioned that भारविः was not the real name of the poet. It was his pen name. See “…भारवॆः मूलनाम दामोदरः आसीत् । भारविः तस्य उपाधिः आसीत् ।….”
- I am left wondering about the coining of the pen name as भारविः. I guess it could have been derived as भाति रविः इव इति भारविः One who shines like the sun !
६-६ I seek guidance on the name of the meter of this सुभाषितम्
शुभमस्तु !
-o-O-o-
Learning Sanskrit by fresh approach – Lesson No. 95
Learning Sanskrit by fresh approach – Lesson No. 95
संस्कृतभाषायाः नूतनाध्ययनस्य पञ्चनवतितमः (९५) पाठः ।
It has been a long time since I posted Lesson No. 94. I have been traveling around a bit too much.
When studying श्लोकः ३५ of प्रथमः अध्यायः श्रीमद्भगवद्गीता I realized the importance of पदक्रम, अन्वय, शब्दशः अभ्यासः
It became opportune that Mr. G.S.S. Murthy had posted this message to samskrita@googlegroups.com
“…I learnt the following verse from an elderly scholar of my village during my boyhood:
पथ्ये सति गदार्तस्य किमौषधिनिषेवणैः ।
पथ्येऽसति गदार्तस्य किमौषधिनिषेवणैः ॥
Where is the need for medicines if one is following strict diet? Of what avail is any medicine if one does not adhere to his diet?
I learnt the following from my Sanskrit teacher:
अनधीते महाभाष्ये व्यर्था सा पदमञ्जरी ।
अधीते तु महाभाष्ये व्यर्था सा पदमञ्जरी ॥
If one has studied Mahabhashya, there is no need to study Padamanjari. If one has not studied Mahabhashya there is no use of studying Padamanjari. (An acerbic comment indeed!)…”
Both the verses are good for a study.
पथ्ये सति गदार्तस्य किमौषधिनिषेवणैः ।
पथ्येऽसति गदार्तस्य किमौषधिनिषेवणैः ॥१।।
अनधीते महाभाष्ये व्यर्था सा पदमञ्जरी ।
अधीते तु महाभाष्ये व्यर्था सा पदमञ्जरी ॥२।।
Exercise 1 Rewrite these by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु ।
पथ्ये सति गद-आर्तस्य किम् औषधि-निषेवणैः ।
पथ्ये असति गद-आर्तस्य किम् औषधि-निषेवणैः ॥१।।
अन्-अधीते महाभाष्ये व्यर्था सा पद-मञ्जरी ।
अधीते तु महाभाष्ये व्यर्था सा पद-मञ्जरी ॥२।।
- गदार्तस्य = गद-आर्तस्य (स्वर-संधिः)
- किमौषधि = किम् औषधि (व्यञ्जन-संधिः)
- पथ्येऽसति = पथ्ये असति (स्वर-संधिः)
- अनधीते = अन्-अधीते (व्यञ्जन-संधिः)
स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु
अन्वयाः
- पथ्ये सति (यदा पथ्यं अस्ति) “सति-सप्तमी”-युक्तः गौण-वाक्यांशः ।
- (तदा) गदार्तस्य औषधि-निषेवणैः किम् (प्रयोजनम् भवति) ?
- पथ्ये असति (यदा पथ्यं न अस्ति) “सति-सप्तमी”-युक्तः गौण-वाक्यांशः ।
- गदार्तस्य औषधि-निषेवणैः किम् (प्रयोजनम् भवति) ?
- अनधीते महाभाष्ये (यदा वा यदि वा महाभाष्यं न अधीतं (भवति) “सति-सप्तमी”-युक्तः गौण-वाक्यांशः ।
- (तदा वा तर्हि वा ) सा पदमञ्जरी व्यर्था (भवति) इति प्रधान-वाक्यांशः ।
- महाभाष्ये अधीते तु (यदा वा यदि वा महाभाष्यं अधीतं भवति) “सति-सप्तमी”-युक्तः गौण-वाक्यांशः ।
- (तदा वा तर्हि वा ) सा पदमञ्जरी व्यर्था (भवति) इति प्रधान-वाक्यांशः ।
वाक्यांशानां विश्लेषणानि Analysis of clauses -
| वाक्यांश- क्रमाङ्कः |
उद्गारवाचकम्, संबोधनम् वा अव्ययम् | संबन्धसूचकम् | कर्तृपदम् | कर्मपदम् अथवा पूरकपदम् | क्रियापदम् अथवा धातुसाधितम् | इतरे शब्दाः |
| १ | पथ्ये | सति | ||||
| १ अ | यदा | पथ्यम् | अस्ति | |||
| २ | तदा | किम् | प्रयोजनम् | भवति | गदार्तस्य औषधि-निषेवणैः | |
| ३ | पथ्ये | असति | ||||
| ३ अ | यदा | पथ्यम् | न अस्ति | |||
| ४ | तदा | किम् | प्रयोजनम् | भवति | गदार्तस्य औषधि-निषेवणैः | |
| ५ | महाभाष्ये | अनधीते | ||||
| ५ अ | यदा वा यदि वा | महाभाष्यम् | अधीतम् | न भवति | ||
| ६ | तदा वा तर्हि वा | सा पदमञ्जरी | व्यर्था | भवति | ||
| ७ | तु | महाभाष्ये | अधीते | |||
| ७ अ | यदा वा यदि वा | महाभाष्यम् | अधीतम् | भवति | ||
| ८ | तदा वा तर्हि वा | सा पदमञ्जरी | व्यर्था | भवति |
स्वाध्यायः ३
- अ) समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।
- आ) वाक्यानां वा वाक्यांशानां आङ्ग्ल-भाषायां अनुवादान् ददतु ।
Exercise 3
- 3 A) Detail the analyses of clauses, decipher the compound words, and detail grammatical analysis of all words
- 3 B) Give translations into English for all clauses and sentences
From the अन्वय words to be studied are underlined. Many words which have been studied earlier quite often need not be detailed every time.
पथ्ये सति (यदा पथ्यं अस्ति), (तदा) गदार्तस्य औषधि-निषेवणैः किम् (प्रयोजनम् भवति) ?
पथ्ये असति (यदा पथ्यं न अस्ति) गदार्तस्य औषधि-निषेवणैः किम् (प्रयोजनम् भवति) ?
अनधीते महाभाष्ये (यदा वा यदि वा महाभाष्यं न अधीतं (भवति) (तदा वा तर्हि वा ) सा पदमञ्जरी व्यर्था (भवति) ।
महाभाष्ये अधीते तु (यदा वा यदि वा महाभाष्यं अधीतं भवति) (तदा वा तर्हि वा ) सा पदमञ्जरी व्यर्था (भवति) ।
१ पथ्ये “पथ्” (= to walk a way) इति धातुः ? । तस्मात् विध्यर्थवाचकं विशेषणम् (?) प्रायः नपुम्सकलिङ्गि नाम “पथ्य” (= the way to be walked, a control (especially of diet) to be exercised) । तस्य सप्तमी विभक्तिः एकवचनम् च ।
२ गदार्तस्य “गदार्त” इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य षष्ठी विभक्तिः एकवचनम् च ।
- २-१ गदेन आर्तः गदार्तः । तृतीया-तत्पुरुषः ।
- २-२ गदेन “गद” (= illness, disease) इति पुल्लिङ्गि नाम । तस्य तृतीया विभक्तिः एकवचनम् च ।
- २-३ आर्तः “आर्त” (= anxious) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३ औषधिनिषेवणैः “औषधिनिषेवण” इति सामासिकं नपुम्सकलिङ्गि नाम । तस्य तृतीया विभक्तिः बहुवचनम् च ।
- ३-१ औषधेः निषेवणम् = औषधिनिषेवणम् । षष्ठी-तत्पुरुषः ।
- ३-२ औषधेः “औषधि” (= medicine) इति स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
- ३-३ निषेवणम् “नि + सेव्” १ आ (= to consume) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “निषेवण” (= consumption) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ३-४ औषधिनिषेवणम् = consuming medicine
४ प्रयोजनम् “प्र + युज्” ७ उ (= to have purpose) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “प्रयोजन” (= purpose) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
५ असति “असत्” इति सामासिकं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
- ५-१ न सत् = असत् । नञ्-तत्पुरुषः ।
- ५-२ सत् “अस्” २ प (= to be, to exist) इति धातुः । तस्मात् वर्तमानकालवाचकं विशेषणम् “सत्” (= existing) । अत्र नपुंसकलिङ्गि ।
- ५-३ असति = when not existing
६ अनधीते “अन् + अधि + इ” १ उ, २ प, ४ आ (= not to study) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “अनधीत” (= not studied) । अत्र नपुंसकलिङ्गि । तस्य सप्तमी विभक्तिः एकवचनम् च ।
७ महाभाष्ये “महाभाष्य” इति सामासिकं नपुंसकलिङ्गि नाम । तस्य सप्तमी विभक्तिः एकवचनम् च ।
- ७-१ महत् भाष्यम् = महाभाष्यम् । कर्मधारयः ।
- ७-२ महत् (= great) इति विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ७-३ भाष्यम् “भाष्” १ आ (= to speak, to comment) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् प्रायः नपुंसकलिङ्गि नाम अपि “भाष्य” (= commentary) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ७-४ महाभाष्यम् = The great commentary. The term usually refers to the great commentary by पातञ्जलि-मुनिः on the अष्टाध्यायी by पाणिनी. The commentary by पातञ्जलि-मुनिः has the title व्याकरण-महाभाष्यम्
८ पदमञ्जरी इति सामासिकं स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ८-१ पदानां मञ्जरी = पदमञ्जरी । षष्ठी-तत्पुरुषः ।
- ८-२ पदानाम् “पद” (= a step, a crisp statement) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
- ८-३ मञ्जरी (= sprouting, a charming spread) इति स्त्रीलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ८-४ पदमञ्जरी = a charming spread of crisp statements. This usually refers to अष्टाध्यायी by पाणिनी. The statements are so crisp that only great commentaries such as व्याकरण-महाभाष्यम् by पातञ्जलि-मुनिः help to understand full import of each statement,
९ व्यर्था “व्यर्थ” (= fruitless, meaningless) इति विशेषणम् । अत्र स्त्रीलिङ्गि “व्यर्था” । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ९-१ विगतः अर्थः यस्मात् तत् = व्यर्थम् ।
- ९-२ विगतः “वि + गम्” १ प (= to go away) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् “विगत” (= gone away, lost) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ९-३ अर्थः “अर्थ” (= meaning, significance) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
- ९-४ व्यर्थम् = विगतः अर्थः यस्मात् तत् =that from which meaning, significance is lost.
स्वाध्यायः ४ आङ्ग्लभाषायां अनुवादं ददतु ।
Exercise 4 Give Translation / Overall meaning -
Mr. GSS Murthy did give translation of the verses. However I have added some words in brackets, which, I think, explain the meaning better.
पथ्ये सति (यदा पथ्यं अस्ति), (तदा) गदार्तस्य औषधि-निषेवणैः किम् (प्रयोजनम् भवति) ?
Where is the need for medicines if one is following strict diet?
पथ्ये असति (यदा पथ्यं न अस्ति) गदार्तस्य औषधि-निषेवणैः किम् (प्रयोजनम् भवति) ?
Of what avail is any medicine if one does not adhere to his diet?
अनधीते महाभाष्ये (यदा वा यदि वा महाभाष्यं न अधीतं (भवति) (तदा वा तर्हि वा ) सा पदमञ्जरी व्यर्था (भवति) ।
If one has studied Mahabhashya, there is no need to study Padamanjari (separately).
महाभाष्ये अधीते तु (यदा वा यदि वा महाभाष्यं अधीतं भवति) (तदा वा तर्हि वा ) सा पदमञ्जरी व्यर्था (भवति) ।
If one has not studied Mahabhashya there is no use of studying Padamanjari.
Exercise 5 In what meter is this verse composed ?
स्वाध्यायः ५ अस्य काव्यस्य रचना कस्मिन् वृत्ते अस्ति ?
To decipher the meter we set the verse in four quarters -
पथ्ये सति गदार्तस्य । वर्णाः ८
किमौषधिनिषेवणैः । वर्णाः ८
पथ्येऽसति गदार्तस्य । वर्णाः ८
किमौषधिनिषेवणैः ॥ वर्णाः ८
अनधीते महाभाष्ये । वर्णाः ८
व्यर्था सा पदमञ्जरी । वर्णाः ८
अधीते तु महाभाष्ये । वर्णाः ८
व्यर्था सा पदमञ्जरी ॥ वर्णाः ८
The meter is not analyzed because it is अनुष्टुभ् छन्दः only.
स्वाध्यायः ६ टिप्पणयः ।
६-१ The verses exemplify charming use of सति-सप्तमी
६-२ The first line of the first verse seems to suggest that diet control can eliminate need for medicine, even for an afflicted person, गदार्तस्य. This seems to be somewhat far-fetched. But such overtures are normally excused to poets. निरङ्कुशाः कवयः !
६-३ References implied behind the words महाभाष्यम् and पदमञ्जरी are already detailed at ७-४ and ८-४. However this logic of learning any great text, rather an encoded text पदमञ्जरी by learning its महाभाष्यम् is a great suggestion.
- ६-३-१ Every सुभाषितम् being studied is a पदमञ्जरी of sorts. And study here is at least a भाष्यम् if not a महाभाष्यम्
६-४ The lines किमौषधिनिषेवणैः in verse 1 and व्यर्था सा पदमञ्जरी in verse 2 are repeated in each verse. But does one sense some difference in their meanings in respective contexts ?
६-५ We use the word व्यर्थम् so naturally that its derivation is hardly ever dwelt upon. The derivation of the word व्यर्थम् however appealed to me to be somewhat interesting, especially a special shade of meaning of the prefix वि. Usually one finds this prefix to mean वि = विशेषेण or वि = विरोधेन However, here its meaning वि = विगतः यस्मात् fits in more appropriately. Is not that some charming joy of learning each word very much by its derivation ?
-o-O-o-
1 comment